कदाचित् नारदमहर्षिः भगवन्तं कृष्णम् अपृच्छत् 'भवतः पत्नीषु भवति का अधिका स्निह्यति ?’ इति । इदं श्रुत्वा कृष्णः शिरःशूलस्य अभिनयं कृत्वा बलवतीं वेदनां प्रकटितवान् । कृष्णः अवदत् 'अश्रुजलमिश्रिता पादेन मर्दिता च मृत्तिका एव अस्याः वेदनायाः औषधम्' इति । नारदः रुक्मिणीं, सत्यभामाम्, अन्याः राज्ञीः च उपेत्य औषधम् अयाचत । परन्तु सर्वतः अपि निराकरणरूपमेव उत्तरं प्राप्नोत् । अन्ते सः राधायाः समीपं गत्वा अपृच्छत् । सपदि एव राधा तद् अयच्छत् । नारदः प्रत्यागत्य प्रवृत्तं सर्वम् उक्त्वा अवदत् 'यत्र निस्स्वार्थतया आत्मसमर्पणं भवति तत्र एव स्नेहः भक्तिः प्रीतिः च भवति इति अनेन ज्ञातम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Sage Narada asked Lord Krishna, "Among all your wives, who loves you the most?" In response, Krishna pretended to have a severe headache and said that the only cure was soil mixed with the tears of a devotee and touched by their feet. Narada approached Rukmini, Satyabhama, and the other queens, but all refused. Finally, he went to Radha, who immediately offered it without hesitation. Returning to Krishna, Narada realized that true love and devotion are marked by complete selflessness and total surrender.