Skip to content
Opens in a new window
सर्वेषु अस्ति ईश्वरः
04 November 2026

सर्वेषु अस्ति ईश्वरः

बालमोदिनी

About

कदाचित् गुरुकुलस्थाः छात्राः भिक्षाटनार्थं यदा समीपस्थं नगरं गतवन्तः तदा कश्चन उन्मत्तः गजः दृष्टः तैः । सर्वे छात्राः जनाः च इतस्ततः धावितवन्तः । किन्तु तेषु एकः छात्रः ईश्वरः सर्वेषु प्राणिषु अस्ति इति यद् गुरुणा उक्तमासीत् तत् स्मृत्वा तत्रैव स्थितवान् । गजस्य हस्तिपकः 'मूढ !! अपसरतु अपसरतु' इति उक्ते अपि सः तत्रैव स्थितवान् आसीत् । गजः तं बालं स्वशुण्डया गृहीत्वा दूरे क्षिप्तवान् । यदा गुरुणा प्रवृत्तं सर्वं ज्ञातं तदा सः अवदत् 'गजे यथा तथा हस्तिपके अपि ईश्वरः अस्ति । कथं तस्य वचने विश्वासः न कृतः ?' इति । तदा शिष्येण स्वस्य मूर्खतायाः अवगमनम् अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A group of gurukula students went to a nearby town for alms. They saw a mad elephant, and everyone fled. One student, recalling the teacher’s words that God is in all beings, stood still. Even when the mahout warned him to move, he did not. The elephant threw him aside. Later, the teacher explained: ‘God is in the mahout too—why did you not heed his words?’ The disciple then realized his folly.