धनं देशसेवायै
21 October 2025

धनं देशसेवायै

बालमोदिनी

About

कस्याञ्चित् कक्ष्यायां प्रवृत्ता घटना एषा । अचार्यः कक्ष्यां प्रविश्य छात्रेभ्यः एकं प्रश्नं पृच्छति 'मार्गे गमनसमये वज्रं दृश्येत तर्हि किं कुर्युः भवन्तः' इति । तदा सर्वे स्वीयम् अभिप्रायं वदन्ति । किन्तु कश्चन बालकः वदति 'वज्रं विक्रीय ततः प्राप्तं धनं देशसेवायै, निर्धनानां साहाय्याय वा व्ययीकरिष्यामि' इति । नितरां सन्तुष्टः आचार्यः देशभक्तत्वेन ख्यातः भव इति अशीर्वादं ददाति । सः एव गोपालकृष्णगोखले इति । सम्यक् प्रवर्धिष्यमाणस्य वृक्षस्य लक्षणम् अङ्कुरदशायाम् एव दृश्यते इत्येतत् सत्यं ननु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This incident took place in a classroom. The teacher entered and asked the students, “If you see a diamond while walking on the road, what would you do?” Each student gave their own answer. But one boy said, “I would sell the diamond and use the money to serve the country or help the poor.” The teacher was deeply pleased and blessed him, saying, “You will be known as a patriot.” That boy was none other than Gopal Krishna Gokhale. Truly, the qualities of a great tree are visible even in its early sprouting stage.